2026-04-23 06:06:44 by ambuda-bot
This page has not been fully proofread.
अथ विधुरविजयनामधेयं सप्तमं स्तोत्रम्
त्वय्यानन्दसरस्वति
समरसतामेत्य नाथ मम चेतः ।
परिहरतु सकृदियन्तं
भेदाधीनं महानर्थम् ॥१ ॥
एतन्मम न त्विदमिति
रागद्वेषादिनिगडदृढमूले।
नाथ भवन्मयतैक्य-
प्रत्ययपरशुः पतत्वन्तः॥२॥
गलतु विकल्पकलङ्कावली
समुल्लसतु हृदि निरर्गलता ।
भगवन्नानन्दरस-
प्लुतास्तु मे चिन्मयी मूर्तिः ॥ ३ ॥
॥३॥
+ 30 ->
त्वय्यानन्दसरस्वति
समरसतामेत्य नाथ मम चेतः ।
परिहरतु सकृदियन्तं
भेदाधीनं महानर्थम् ॥१ ॥
एतन्मम न त्विदमिति
रागद्वेषादिनिगडदृढमूले।
नाथ भवन्मयतैक्य-
प्रत्ययपरशुः पतत्वन्तः॥२॥
गलतु विकल्पकलङ्कावली
समुल्लसतु हृदि निरर्गलता ।
भगवन्नानन्दरस-
प्लुतास्तु मे चिन्मयी मूर्तिः ॥ ३ ॥
॥३॥
+ 30 ->