2026-04-23 06:06:44 by ambuda-bot
This page has not been fully proofread.
भगवन्भवतः पूर्णं पश्येयमखिलं जगत् ।
तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥
विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव ।
भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥७ ॥
स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः ।
सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः ॥ ८ ॥
कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः ।
श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥९॥
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे ।
घटतामिति प्राप्ते किं नाथ न जितं मया ॥१०॥
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः ।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥ ११ ॥
✦ 29 ->