Proofing

This page has not been fully proofread.

अथ अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम्
 
क्षणमात्रमपीशान वियुक्तस्य त्वया मम ।
निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥१ ॥
 
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ २ ॥
 
कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् ।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ३ ॥
 
निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा ।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥४॥
 
भवदावेशतः पश्यन् भावं भावं भवन्मयम् ।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥५ ॥
 
+28+>