2026-04-23 06:06:44 by ambuda-bot
This page has not been fully proofread.
P
आस्वादयन् भवेयं
कमपि महारसमपुनरुक्तम्॥२३॥
स्फुरदनन्तचिदात्मकविष्टपे
परिनिपीतसमस्तजडाध्वनि ।
अगणितापरचिन्मयगण्डिके
प्रविचरेयमहं भवतोऽर्चिता ॥ २४ ॥
स्ववपुषि स्फुटभासिनि शाश्वते
स्थितिकृते न किमप्युपयुज्यते ।
इति मतिः सुदृढा भवतात् परं
मम भवच्चरणाब्जरजः शुचेः ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघ्रितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
+27 +>
आस्वादयन् भवेयं
कमपि महारसमपुनरुक्तम्॥२३॥
स्फुरदनन्तचिदात्मकविष्टपे
परिनिपीतसमस्तजडाध्वनि ।
अगणितापरचिन्मयगण्डिके
प्रविचरेयमहं भवतोऽर्चिता ॥ २४ ॥
स्ववपुषि स्फुटभासिनि शाश्वते
स्थितिकृते न किमप्युपयुज्यते ।
इति मतिः सुदृढा भवतात् परं
मम भवच्चरणाब्जरजः शुचेः ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघ्रितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
+27 +>