2026-04-23 06:06:43 by ambuda-bot
This page has not been fully proofread.
1
अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः ।
नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥ १५ ॥
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः॥१६॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ १७ ॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम्॥१८॥
तत्तदपूर्वामोद-
त्वच्चिन्ताकुसुमवासना दृढताम्।
एतु मम मनसि याव-
न्नश्यतु दुर्वासनागन्धः॥१९॥
✦ 25