2026-04-23 06:06:43 by ambuda-bot
This page has not been fully proofread.
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥
प्रहर्षाद्वाथ शोकाद्वा यदि कुडयाद्धादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ १० ॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम्॥११॥
त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम्।
कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥१२॥
निवेदितमुपादत्स्व रागादि भगवन्मया ।
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥१३॥
अशेषभुवनाहारनित्यतृप्तः सुखासनम्।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥
+24+>