2026-04-23 06:06:43 by ambuda-bot
This page has not been fully proofread.
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥ ३ ॥
अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन।
अहो स्वादो विरूपाक्षेत्येव नृत्येयमारटन् ॥४॥
त्वपादपद्मसंस्पर्शपरिमीलितलोचनः ।
विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः॥५ ॥
चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा ।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥६॥
यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् ।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥ ७ ॥
समुल्लसन्तु भगवन् भवद्भानुमरीचयः ।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥८ ॥
+23+