Proofing

This page has not been fully proofread.

शुभशतान्युदितानि तदैव मे
किमपरं मृगये भवतः प्रभो ॥२१॥
 
यत्र सोऽस्तमयमेति विवस्वाँ-
चन्द्रमः प्रभृतिभिः सह सर्वैः ।
कापि सा विजयते शिवरात्रिः
 
स्वप्रभाप्रसरभास्वररूपा॥२२॥
 
अप्युपार्जितमहं त्रिषु लोके-
ष्वाधिपत्यममरेश्वर मन्ये ।
 
नीरसं तदखिलं भवदङ्घ्रि-
स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥
 
बत नाथ दृढोऽयमात्मबन्धो
भवदख्यातिमयस्त्वयैव क्लृप्तः ।
 
यदयं प्रथमानमेव मे त्वा-
 
मवधीर्य श्लथते न लेशतोऽपि ॥ २४ ॥
 
✦ 21 +