2026-04-23 06:06:42 by ambuda-bot
This page has not been fully proofread.
क्षणमपीह न तावकदासतां
प्रति भवेयमहं किल भाजनम् ।
भवदभेदरसासवमादरा-
दविरतं रसयेयमहं न चेत् ॥ १८ ॥
न किल पश्यति सत्यमयं जन-
स्तव वपुर्द्वयदृष्टिमलीमसः ।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न शृणोषि मे ॥ १९ ॥
स्मरसि नाथ कदाचिदपीहितं
विषयसौख्यमथापि मयार्थितम् ।
सततमेव भवद्वपुरीक्षणा-
मृतमभीष्टमलं मम देहि तत् ॥ २० ॥
किल यदैव शिवाध्वनि तावके
कृतपदोऽस्मि महेश तवेच्छया ।
- 20 ->
प्रति भवेयमहं किल भाजनम् ।
भवदभेदरसासवमादरा-
दविरतं रसयेयमहं न चेत् ॥ १८ ॥
न किल पश्यति सत्यमयं जन-
स्तव वपुर्द्वयदृष्टिमलीमसः ।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न शृणोषि मे ॥ १९ ॥
स्मरसि नाथ कदाचिदपीहितं
विषयसौख्यमथापि मयार्थितम् ।
सततमेव भवद्वपुरीक्षणा-
मृतमभीष्टमलं मम देहि तत् ॥ २० ॥
किल यदैव शिवाध्वनि तावके
कृतपदोऽस्मि महेश तवेच्छया ।
- 20 ->