Proofing

This page has not been fully proofread.

यः शशीव प्रसृतोऽमृताशयात्
स्वादु संस्रवति चामृतं परम् ॥१४॥
 
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः ।
तदपि नास्ति भवत्पुरगोपुरा-
र्गलकवाटविघट्टनमण्वपि ॥ १५ ॥
 
सततफुल्लभवन्मुखपङ्कजो-
दरविलोकनलालसचेतसः ।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः॥१६॥
 
त्वद विभेदमतेरपरं नु किं
सुखमिहास्ति विभूतिरथापरा ।
तदिह तावकदासजनस्य किं
 
कुपथमेति मनः परिहृत्य ताम् ॥१७॥
 
+19 +