2026-04-23 06:06:42 by ambuda-bot
This page has not been fully proofread.
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम्॥११॥
त्वज्जुषां त्वयि कयापि लीलया
राग एष परिपोषमागतः ।
यद्वियोगभुवि सङ्कथा तथा
संस्मृतिः फलति संगमोत्सवम्॥१२॥
यो विचित्ररससेकवर्धितः
शङ्करेति शतशोऽप्युदीरितः ।
शब्द आविशति तिर्यगाशये-
ष्वप्ययं नवनवप्रयोजनः ॥१३॥
ते जयन्ति मुखमण्डले भ्रमन्
अस्ति येषु नियतं शिवध्वनिः ।
+18+>
जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम्॥११॥
त्वज्जुषां त्वयि कयापि लीलया
राग एष परिपोषमागतः ।
यद्वियोगभुवि सङ्कथा तथा
संस्मृतिः फलति संगमोत्सवम्॥१२॥
यो विचित्ररससेकवर्धितः
शङ्करेति शतशोऽप्युदीरितः ।
शब्द आविशति तिर्यगाशये-
ष्वप्ययं नवनवप्रयोजनः ॥१३॥
ते जयन्ति मुखमण्डले भ्रमन्
अस्ति येषु नियतं शिवध्वनिः ।
+18+>