Proofing

This page has not been fully proofread.

अथ सुरसोद्बलाख्यं चतुर्थं स्तोत्रम्
 
चपलमसि यदपि मानस
तत्रापि श्लाघ्यसे यतो भजसे ।
शरणानामपि शरणं
त्रिभुवनगुरुमम्बिकाकान्तम्॥१॥
 
उल्लङ्घ्य विविधदैवत-
सोपानक्रममुपेयशिवचरणान् ।
आश्रित्याप्यधरतरां भूमिं
नाद्यापि चित्रमुज्झामि ॥ २ ॥
 
प्रकटय निजमध्वानं
 
स्थगयतरामखिललोकचरितानि ।
 
यावद्भवामि भगवं-
 
स्तव सपदि सदोदितो दासः ॥ ३ ॥
 
+ 15 ->