Proofing

This page has not been fully proofread.

सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो ।
त्वं चासतस्सतश्चान्यस्तेनासि सदसन्मयः ॥ १८ ॥
 
सहस्त्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।
 
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥
 
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥२०॥
 
अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः ।
 
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ २१ ॥
 
+14 +>