Proofing

This page has not been fully proofread.

नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत्।
ज्ञानं स्यात् किन्तु विश्वकपूर्णा चित्त्वं विजृम्भते॥१२॥
- दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥१३॥
 
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥ १४ ॥
 
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो ।
संसारार्णव एवैष येषां क्रीडामहासरः ॥ १५ ॥
 
आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् ।
- त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ १६ ॥
 
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः ।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥
 
+13+