2026-04-23 06:06:40 by ambuda-bot
This page has not been fully proofread.
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः ।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥६॥
त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो॥
येषामहृदया एव तेऽवज्ञास्पदमीदृशाः ॥७॥
प्रभुणा भवता यस्य जातं हृदयमेलनम्।
प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८ ॥
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् ।
भवद्ध्यानामृतापूरो निम्नानिम्न भुवामिव ॥९॥
केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा ।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ १० ॥
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः ।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥११॥
✦ 12 ->
C