2026-04-23 06:06:40 by ambuda-bot
This page has not been fully proofread.
अथ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्
सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।
तामुल्लङ्घय तृतीयस्मै नमश्चित्राय शम्भवे ॥१ ॥
आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये ।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ २ ॥
अशेष- विश्वखचित-भवद्वपुरनुस्मृतिः ।
येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३ ॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः ।
चामरं स्वर्धुनीस्त्रोतः स एकः परमेश्वरः ॥ ४ ॥
प्रकाशां शीतलमेकां शुद्धां शशिकलामिव ।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥५॥
11>