Proofing

This page has not been fully proofread.

मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।
आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः ॥२४॥
 
परमामृतकोशाय परमामृतराशये ।
सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥२५॥
 
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ।
अपूर्वामोदसुभगं परामृतरसोल्वणम्॥२६॥
 
स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे ।
 
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥२७॥
 
सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा ।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ २८ ॥
 
जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् ।
जगतां परमेश्वरो भवान्, परमेकः शरणागतोऽस्मि ते ॥ २९ ॥
 
+10->