Proofing

This page has not been fully proofread.

उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये ।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ १८ ॥
 
दक्षिणाचारसाराय वामाचाराभिलाषिणे ।
सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥
 
यथा तथापि यः पूज्यो यत्रतत्रापि योऽर्चितः ।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥
 
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे ।
नमो विततलावण्यवाराय वरदाय ते ॥२१॥
 
सदा निरन्तरानन्दरसनिर्भरिताखिल-
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥
 
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।
 
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥२३॥
 
+9+>