Proofing

This page has not been fully proofread.

सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा ।
एवमेवोद्यते नाथ त्वया संहारलीलया ॥ १८ ॥
 
ध्यातमात्रमुपतिष्ठत एव
त्वद्वपुर्वरद भक्तिधनानाम् ।
अप्यचिन्त्यमखिलाद्भुतचिन्ता-
कर्तृतां प्रति च ते विजयन्ते॥१९॥
 
तावक भक्तिरसासव-
 
सेकादिव सुखितमर्ममण्डलस्फुरितैः ।
नृत्यति वीरजनो निशि
वेतालकुलैः कृतोत्साहः ॥२०॥
 
आरब्धा भवदभिनुति-
रमुना येनाङ्गकेन मम शम्भो ।
 
✦ 103 +