शिवस्तोत्रावली /110
This page has not been fully proofread.
दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥१२॥
मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषाम् ।
तथापि वयमीशान सीदामः कथमुच्यताम्॥१३॥
ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति ।
प्रकाशः स्वैरिणामेव भवान् भक्तिमतां प्रभो ॥१४ ॥
भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव ।
तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥ १५ ॥
सर्वाभासावभासो यो विमर्शवलितोऽखिलम् ।
अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥ १६ ॥
वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥१७॥
- 102 ->