Proofing

This page has not been fully proofread.

कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः ।
हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥६॥
 
ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् ।
संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥७॥
 
भक्तिकण्डूसमुल्लासावसरे परमेश्वर ।
महानिकषपाषाणस्थूणा पूजैव जायते ॥ ८ ॥
 
सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥९ ॥
 
न वापि गत्वा हित्वापि न किंचिदिदमेव ये ।
भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ १० ॥
 
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एतया वा दरिद्राणां किमन्यदुपयाचितम् ॥ ११ ॥
 
+101 ->