Proofing

This page has not been fully proofread.

अथ चर्वणभिधानं विशं स्तोत्रम्
 
नाथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् !
उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥१॥
 
नौमि निजतनुविनिस्सरदंशुकपरिवेषधवलपरिधानम् ।
विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥२॥
 
वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः ।
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम्॥३॥
 
क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥४ ॥
 
त्वद्धानि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति ।
तव नाथ कियान् भूयान्नानन्दरससम्भवः॥५॥
 
+ 100
 
1
 
1