Proofing

This page has not been fully proofread.

त्वद्वपुः स्मृतिसुधारसपूर्णे
मानसे तव पदाम्बुजयुग्मम्।
मामके विकसदस्तु सदैव
प्रस्रवन्मधु किमप्यतिलोकम् ॥१६॥
 
अस्ति मे प्रभुरसौ जनकोऽथ
त्र्यम्बकोऽथ जननी च भवानी।
न द्वितीय इह कोऽपि ममास्ती-
त्येव निर्वृततमो विचरेयम्॥१७॥
 
+ 99
 
+