Proofing

This page has not been fully proofread.

त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो ।
यावदिमा उद्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ १२ ॥
 
मोक्षदशायां भक्ति-
 
स्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा ।
राजति ततोऽनुरूपा-
 
मारोपय सिद्धिभूमिकामज माम् ॥ १३ ॥
 
सिद्धिलवला भलुब्धं
 
मामवलेपेन मा विभो संस्थाः ।
 
क्षामस्त्वद्भक्तिमुखे
 
प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १४ ॥
 
दासस्य मे प्रसीदतु
 
भगवानेतावदेव ननु याचे ।
 
दाता त्रिभुवननाथो
 
यस्य न तन्मादृशां दृशो विषयः ॥ १५ ॥
 
✦ 98 ->