शिवस्तोत्रावली /105
This page has not been fully proofread.
- ध्यातमात्रमुदितं तव रूपं
कर्हि नाथ परमामृतपूरैः ।
पूरयेत्त्वदविभेदविमोक्षा-
- ख्यातिदूरविवराणि सदा मे ॥७॥
त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम्।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥८ ॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा ।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ ९ ॥
नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः ।
यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥१०॥
देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः ।
परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥११॥
+ 97 ->