Proofing

This page has not been fully proofread.

ज्ञानकर्ममयचिद्वपुरात्मा
सर्वथैष परमेश्वर एव ।
स्याद्वस्तु निखिलेषु पदार्थे-
ष्वेषु नाम न भवेत्किमुतान्यत्॥३॥
 
विषमार्तिमुषानेन फलेन त्वदृगात्मना ।
 
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ ४ ॥
 
भवदमलचरणचिन्तारत्नलता-
लङ्कृता कदा सिद्धिः ।
सिद्धजनमानसानां विस्मयजननी
 
घटेत मम भवतः ॥५॥
 
कर्हि नाथ विमलं मुखबिम्बं
तावकं समवलोकयितास्मि ।
यत्स्त्रवत्यमृतपूरमपूर्वं
 
यो निमज्जयति विश्वमशेषम्॥६॥
 
✦ 96 ->