Proofing

This page has not been fully proofread.

सततं पुनरर्थितं ममैत-
द्यदविश्रान्ति विलोकयेयमीशम्॥२१॥
 
अथ उद्योतनाभिधानाम्
एकोनविंशं स्तोत्रम्
 
प्रार्थनाभूमिकातीतविचित्रफलदायकः ।
 
जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ १ ॥
 
सर्ववस्तुनिचयैकनिधाना-
 
त्स्वात्मनस्त्वदखिलं किल लभ्यम् ।
अस्य मे पुनरसौ निज आत्मा
 
न त्वमेव घटसे परमास्ताम् ॥२॥
 
✦ 95 ->