शिवस्तोत्रावली /102
This page has not been fully proofread.
न च विभिन्नमसृज्यत किञ्चिद-
स्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखि च भेदि च सर्वथा-
प्यसमविस्मयधाम नमोऽस्तु ते ॥ १८ ॥
खरनिषेधखंदामृतपूरणो-
च्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिण-
स्त्वदवलोकनमस्तु निरन्तरम्॥१९॥
स्फुटमाविश मामथाविशेयं
सततं नाथ भवन्तमस्मि यस्मात् ।
रभसेन वपुस्तवैव साक्षा-
त्परमासत्तिगतः समर्चयेयम्॥२०॥
त्वयि न स्तुतिशक्तिरस्ति कस्या-
प्यथवास्त्येव यतोऽतिसुन्दरोऽसि ।
+94 ->
स्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखि च भेदि च सर्वथा-
प्यसमविस्मयधाम नमोऽस्तु ते ॥ १८ ॥
खरनिषेधखंदामृतपूरणो-
च्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिण-
स्त्वदवलोकनमस्तु निरन्तरम्॥१९॥
स्फुटमाविश मामथाविशेयं
सततं नाथ भवन्तमस्मि यस्मात् ।
रभसेन वपुस्तवैव साक्षा-
त्परमासत्तिगतः समर्चयेयम्॥२०॥
त्वयि न स्तुतिशक्तिरस्ति कस्या-
प्यथवास्त्येव यतोऽतिसुन्दरोऽसि ।
+94 ->