शिवस्तोत्रावली /101
This page has not been fully proofread.
इदमेव हि नामरूपचेष्टा-
समं ते हरते हरोऽस्मि यस्मात् ॥ १४ ॥
शान्तये न सुखलिप्सुता मनाक्
भक्तिसम्भृतमदेषु तैः प्रभोः ।
मोक्षमार्गणफलापि नार्थना
स्मर्यते हृदयहारिणः पुरः ॥१५॥
जागरेतरदशाथवा परा
यापि काचन मनागवस्थितेः ।
भक्तिभाजनजनस्य साखिला
त्वत्सनाथमनसो महोत्सवः ॥१६॥
आमनोऽक्षवलयस्य वृत्तयः
सर्वतः शिथिलवृत्तयोऽपि ताः ।
त्वामवाप्य दृढदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम् ॥१७॥
✦ 93 -
समं ते हरते हरोऽस्मि यस्मात् ॥ १४ ॥
शान्तये न सुखलिप्सुता मनाक्
भक्तिसम्भृतमदेषु तैः प्रभोः ।
मोक्षमार्गणफलापि नार्थना
स्मर्यते हृदयहारिणः पुरः ॥१५॥
जागरेतरदशाथवा परा
यापि काचन मनागवस्थितेः ।
भक्तिभाजनजनस्य साखिला
त्वत्सनाथमनसो महोत्सवः ॥१६॥
आमनोऽक्षवलयस्य वृत्तयः
सर्वतः शिथिलवृत्तयोऽपि ताः ।
त्वामवाप्य दृढदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम् ॥१७॥
✦ 93 -