This page has been fully proofread once and needs a second look.

तिबिम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परितः समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलनान्नित्यसुखिनः परमानन्द घनस्य, कुतो भयं न कुतश्चिदेवेतियुक्तमुक्तं प्राक्तेन ते वपुः पूजयन्त्यचलभक्तिशालिन इति ॥ १६ ॥
 
कण्ठकोणविनिविष्टमीश ते
कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्दपु-
र्भेदवृत्ति यदि मे न रोचते ॥ १७ ॥
 
कण्ठेति । इमामेवाद्वयदृष्टिं प्रशंसन्नाह कण्ठेति । कालकूटं महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वदभेदेन प्रथमानं, मे महामृतं, परमव्याप्तिप्रदत्वात्, उक्तं हि "विषमव्यमृतायते" इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्रपुषो भेदवृत्ति चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते नाभिलाषपदं ममेति यावत् ॥ १७ ॥
 
त्वत्प्रलापमयरक्तगीतिका-
नित्ययुक्तवदनोपशोभितः ।
स्यामथापि भवदर्चनक्रिया-
प्रेयसापरिगताशयः सदा ॥ १८ ॥
 
त्वदिति । एवमद्वयसमावेशमात्माने सदोचितत्वेनेप्सन्नाहत्वदिति । समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्प्रलापमयीभिर्भक्त्यनुरागा- भिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिर्नित्ययुक्तेन वदनेनोप- शोभितोऽति सुन्दररुचिः स्याम्, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परमव-