This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
तिबिम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परितः
समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलना-
न्निसमुत्यसुखिनः परमानन्द घनस्य, कुतो भयं न कुतश्चिदेवेतियुक्त-
मुक्तं प्राक्तेन ते वपुः पूजयन्त्यचलभक्तिशालिन इति ॥ १६ ॥

 
कण्ठकोण विनिविष्टमीश ते

कालकूटमपि मे महामृतम् ।

प्युपात्तममृतं भवद्पु-

र्भेदवृत्ति यदि मे न रोचते ॥ १७ ॥
 
१००
 

 
कण्ठेति । इमामेवाद्वयदृष्टि मटिं प्रशंसन्नाह कण्ठेति । कालकू
टं महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वद-
भेदेन प्रथमानं, मे महामृतं, परमव्याप्तिप्रदत्वात्, उक्तं हि "विपम-
षमव्यमृतायते" इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्रपुषो
भेदवृत्ति चिद्रग्रहवयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते
नाभिलाषपदं ममेति यावत् ॥ १७ ॥
 

 
त्वत्प्रलापमयरक्तगीतिका-
'

नित्ययुक्तवदनोपशोभितः ।

स्यामथापि भवदर्चनक्रिया-

प्रेयसापरिगताशयः सदा ॥ १८ ॥
 

 
त्वदिति । एवमद्वयसमावेशमात्माने सदोचितत्वेने प्सन्नाह
त्वदिति । समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्प्रलापम-
यीभिर्भक्त्यनुरागा- भिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिर्नि-
त्ययुक्तेन वदनेनोप- शोभितोऽति सुन्दररुचिः स्याम्, अथापीति
अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परमव-
CC-0 Pulwama Collection. Digitized by eGangotri