2023-02-27 05:36:21 by ambuda-bot
This page has not been fully proofread.
संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
स्फारयसीति । ननु मलिनैरर्थैः कथं शुद्धस्वरूपभगवदर्चा
इत्याशङ्का सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह
स्फारयसीति । आत्मना चिन्मयेन, स्फुरन भासमानः, अखिलं
विश्वं स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा
स्वरूप मामृशन्निजस्वरूपं चमत्कुर्वन, निखिलं विश्वमामृशसि.
आस्वादनेन आनन्दघनं घटयसि, यश्च स्वयं निजेन चिद्रसेन घूर्ण से
पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलमखिलं पदार्थजातं,
समुल्लसति चिद्भूमाबुन्मीलति, एवमनेन विश्वस्याभेदसाराः पर-
दशोचिताःस्थितिसंहारसर्गाः ज्ञानेच्छाक्रियाशक्तिपरिस्पन्दरूपाः
क्रमेणोक्ताः, अक्रमेऽपि हि संवित्तत्वे व्यावृत्तिभेदेन सृष्टिस्थि-
तिसंहारशक्त्यवियोगः सनातनत्वेन वर्ण्यतापि यदपेक्षयाऽयं
क्रमव्यवहारः । तथा च श्रीपूर्वशास्त्रेषूक्तम् "सव्यापाराधिपत्वेन
तद्धीनप्रेरकत्वतः । इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा ॥"
इति । सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मय-
त्वेनाक्रमतापरमार्थप्रकाशनाय ॥ १५ ॥
यो विकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जग-
त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥
य इति । ननु परमेश्वरभूभावभिन्नानामर्थाना मस्तु शुद्धत्वं
मायापदे तु भेदविघ्नव्याकुलिते कथमेतदियाशय भेदविघ्नमस-
रक्षयमाह य इति । हे ईश अर्थमण्डलं प्रमेयजातमविकल्पं
कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थिया
यो योगिवरो भवद्वपुश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनम-
CC-0 Pulwama Collection. Digitized by eGangotri