This page has been fully proofread once and needs a second look.

स्वामीति । नित्योदित्यसमावेशरूपमेव फलमाकाङ्क्षन्नाह स्वामीति । स्वामिनः सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमूहमत्युच्चैः शाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाद्यनपेक्षम् इच्छामात्रेणैव विनिर्बन्धं कृत्वाऽधिरुह्य देहादि भूमिन्यग्भावेन स्वीकृत्य, प्राग्व्याख्यातप्रसाद- परमामृतासवापानक्रीडया परिलब्धनिर्वृतिः आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशक्त्या दृष्टान्तालङ्कारध्वनिना लौकिकेश्वरार्थः प्राग्वत् ॥ १३ ॥
 
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम् ।
तां समर्पयति तेन ते वपुः
पूजयन्त्यचलभक्तिशालिनः ॥ १४ ॥
 
यदिति । प्रतिपादितपूजोपायमाह यदिति । मायाशक्त्या यद्यपि हेयोपादेय- ताभाञ्जि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्थानिसुभगप्रयोजनान्येव समस्तानि वस्तूनि तेषु विषयभूतेषु, यत्किञ्चिदिन्द्रियपथगतं तदीयरूप- स्पर्शादि, स्पर्शमात्रविधिना संवित्सङ्कल्पविकल्पेन संविद्यापारेण, तामिति असामान्यां चमत्कृतिं, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण, ते वपुश्चिन्मयरूपम्, अचलभक्त्या नवनवसमावेशेन शालमानाः, पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति ॥ १४ ॥
 
स्फारयस्यैखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥ १५ ॥