This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
स्वामीति । नियोदियसमावेश रूपमेव फलमाकाङ्क्षन्नाह स्वा-
मीति । स्वामिनः सम्बन्धिनं सौधम् अतिस्पृहणीय स्वधामसमू-
हमत्युच्चैः शाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाद्यनपेक्षम् इ-
च्छामात्रेणैव विनिर्वन्धं कृत्वाऽधिरुह्य देहादि भूमिन्यग्भावेन स्वी-
कृय, प्राग्व्याख्यातप्रसादपरमामृतासवापानक्रीडया परिल-
ब्धनिर्वृतिः आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशक्त्या दृष्टा-
न्तालङ्कारध्वनिना लौकिकेश्वरार्थः माग्वत् ॥ १३ ॥
यत्समस्त सुभगार्थवस्तुषु
स्पर्शमात्र विधिना चमत्कृतिम् ।
तां समर्पयति तेन ते वपुः
 
पूजयन्त्यचलभक्तिशालिनः ॥ १४ ॥
यदिति । प्रतिपादितपूजोपायमाह यदिति । मायाशक्त्या
यद्यपि हेयोपादेयताभाञ्जि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्था-
नि सुभगप्रयोजनान्येव समस्तानि वस्तूनि तेषु विषयभूतेषु, यत्कि-
ञ्चिदिन्द्रियपथगतं तदीयरूपस्पर्शादि, स्पर्शमात्रविधिना संवि-
सङ्कल्पविकल्पेन संविद्यापारेण, तामिति असामान्यां चमत्कृ
ति, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण,
ते वपुश्चिन्मयरूपम्, अचलभक्त्या नवनवसमावेशेन शालमानाः,
पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति ॥ १४ ॥
स्फारयस्यैखिलमात्मना स्फुरन
विश्वमामृशसि रूपमामृशन् ।
यस्स्वयं निजरसेन घूर्णसे
 
तत्समुल्लसति भावमण्डलम् ॥ १५ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri