This page has been fully proofread once and needs a second look.

अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
 
शक्तिपातेति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपातेति । प्राप्तमित्युचितम्,ईशेत्यामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं, कर्हिचित् कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्तिपाते किमागतमिति क एष प्रकार: यत् चिदात्मकस्वात्मप्रकाशात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं करोषि, मा कृषाः ॥ ११ ॥
 
तत्र तत्र विषये बहिर्विभा-
त्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्त्रियनिर्भरं सदा
लोकयेय निजपाणिपूजितम् ॥ १२ ॥
 
तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति । बहिरिति, बाह्ये नीलादौ आन्तरे च सुखादौ, च विभासति त्वां पारमेश्वर्या परशक्त्या युतं नित्यसम्बद्धं, प्राग्वज्जगत्त्रयेण विश्वेन निर्भरं, लोकयेय साक्षात्कुर्यो, निजेन पाणिना पञ्चावर्तमध्यमध्य मप्राणशक्त्युद्बोधनक्रमाद्धृतविश्वार्पणसमेधे- नार्चितम्, अत्र पाणिः शक्तिः यथोक्तमाम्नाये "हस्तः शक्तिः प्रकीर्तित" इति, एतत्पूजोचितम् ॥ १२ ॥
 
स्वामिसौधमंभिसन्धिमात्रतो
निर्विबन्धमधिरुह्य सर्वदा ।
स्यां प्रसादपरमामृतासवा-
पानकेन परिलब्धनिर्वृतिः ॥ १३ ॥