This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
युप्ष्मत्पूजारसायनपानं आसमन्तात्पिन, उद्गतमदोऽपि नाम
भवेयम् एतत्प्रार्थये प्रभुमेवार्थये ॥ ८ ॥

 
अन्यवेद्यमणुमात्रमस्ति न

स्वप्रकाशमखिलं विजृम्भते ।

यत्र नाथ भवतः पुरे स्थितिम्

तत्र मे कुरु सदा तवार्चितुः ॥ ९ ॥
मे

 
अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे,
व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्यद्भिन्नं वेद्यम् अणुमात्र-
मपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव
विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थितितिं गाढगाढसमावे-
शरूपां कुरु ॥ ९ ॥
 

 
दासधाम्नि विनियोजितोप्यहम्

स्वेच्छयैव परमेश्वर त्वया ।

दर्शनेन न किमस्मि पात्रितः
 

 

पादसंवहनकर्मणाऽपि वा ॥ १० ॥
 

 
दासधाम्नीति । एवमर्थितेऽपि जगतीप्सितमनाप्नुवन् खिन्न
इवाह दासेति । स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षो हि
शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षा-
त्कारानुप्रवेशेन पात्रितो भाजनीकृतः, पादसंवहनकर्मणा रुद्रश--
क्तिसमावेशाह्लादनेन अनुरणनोक्त्या लौकिके- श्वरार्थः प्राग्वत् १०

 
शक्तिपातसमये विचारणम्

प्राप्तमीश न करोषि कर्हिचित् ।
 
CC-0 Pulwama Collection. Digitized by eGangotri