2023-02-27 05:36:21 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम्
युप्मत्पूजारसायनपानं आसमन्तात्पिवन, उद्गतमदोऽपि नाम
भवेयम् एतत्प्रार्थये प्रभुमेवार्थये ॥ ८ ॥
अन्यवेद्यमणुमात्रमस्ति न
स्वप्रकाशमखिलं विजृम्भते ।
यत्र नाथ भवतः पुरे स्थितिम्
तत्र मे कुरु सदा तवार्चितुः ॥ ९ ॥
मे
अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे,
व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्यद्भिनं वेद्यम् अणुमात्र-
मपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव
विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थिति गाढगाढसमावे-
शरूपां कुरु ॥ ९ ॥
दासधाम्नि विनियोजितोप्यहम्
स्वेच्छयैव परमेश्वर त्वया ।
दर्शनेन न किमस्मि पात्रितः
●
पादसंवहनकर्मणाऽपि वा ॥ १० ॥
दासधाम्नीति । एवमर्थितेऽपि जगतीप्सितमनाप्नुवन खिन्न
इवाह दासेति । स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षो हि
शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षा-
त्कारानुप्रवेशेन पात्रितो भाजनीकृतः, पादसंवहनकर्मणा रुद्रश--
क्तिसमावेशाह्लादनेन अनुरणनोक्त्या लौकिकेश्वरार्थः प्राग्वत् १०
शक्तिपातसमये विचारणम्
प्राप्तमीश न करोषि कर्हिचित् ।
CC-0 Pulwama Collection. Digitized by eGangotri