This page has been fully proofread once and needs a second look.

ध्वायत इति । "उच्चाररहितं वस्तु चेतसैव विचिन्तयन्" इति स्थित्या ध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेषणै कीक्रियते स्वयमेव न तु उच्चारकरणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अनन्याकारविशेषेण, यत्रेति पूजनमहोत्सवे, महोत्सवशब्दे नात्यन्तमुपादेयतामस्य वदन्नात्मनस्तदासक्त्या प्रमोदनिर्भरतां ध्वनति,
अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६ ॥
 
एतदेव श्लाघमान आह -
यद्यथास्थितपदार्थदर्शनम्
युष्मदर्चनमहोत्सवश्च यः ।
युग्ममेतदितरेतराश्रयम्
भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥
 
यदिति । यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमितीदं द्वयमितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्योभयस्य युगपत्मकाशात् ॥ ७ ॥
 
तत्तदिन्द्रियमुखेन सन्ततम्
युष्मदर्चनरसायनासवम् ।
सर्वभावचषकेषु पूरिते-
ष्वापिवन्नपि भवेयमुन्मदः ॥ ८ ॥
 
तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या चिदैक्यामृतेन पूरितेषु भृतेषु, तदाहरणक्रमेण तुर्यारोहरूपं