This page has not been fully proofread.

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
 
ध्वायत इति । "उच्चाररहितं वस्तु चेतसैव विचिन्तयन्"
इति स्थिया ध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि
स्पृश्यते, गाढगाढसमाश्लेषणैकीक्रियते स्वयमेव न तु उच्चार-
करणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अन-
न्याकारविशेषेण, यत्रेति पूजनमहोत्सवे, महोत्सवशब्देनास-
•न्तमुपादेयतामस्य वदन्नात्मनस्तदासक्त्या प्रमोदनिर्भरतां ध्वनात,
अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६ ॥
एतदेव श्लाघमान आह
यद्यथास्थितपदार्थदर्शनम्
युष्मदर्चनमहोत्सवश्च यः ।
युग्ममेतदितरेतराश्रयम्
 
भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥
 
यदिति । यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न
त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमिती-
दं द्वयमितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्यो-
भयस्य युगपत्मकाशात् ॥ ७ ॥
 
तत्तदिन्द्रियमुखेन सन्ततम्
युष्मदर्चनरसायनासवम् ।
सर्वभावचषकेषु पूरिते-
ब्वापिवन्नपि भवेयमुन्मदः ॥ ८ ॥
तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा
एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या
चिंदैक्यामृतेन पूरितेषु भृतेषु, तदाहरणक्रमेण तुर्यारोहरूपं
 
CC-0 Pulwama Collection. Digitized by eGangotri