This page has been fully proofread once and needs a second look.

ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदैक्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम् अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः, पण्डा सम्यक् तत्त्वर्दीशनी प्रज्ञा सञ्जाता यस्य सोऽस्मि, सुभगः परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणी- योऽस्मि, तत्किं बहुना मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दा- त्मना विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते
दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिताSपि मलिनैव "स्वसोपानपदारूढ्या भर्तुः स्यादन्तिके स्थितिः । इतरस्तु विकल्पानां वैमुख्याद्बाह्यभूमिग इति", त्वदनुरागिणो यत एवं मानिताऽपि शोभते ततः ॥ ४ ॥
 
देवदेव भवदद्वयामृता-
ख्यातिसंहरणलब्धजन्मना ।
तद्यथास्थितपदार्थसंविदा
मां कुरुष्व चरणार्चनोचितम् ॥ ५ ॥
 
देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्याते: त्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म यया तथा यथास्थितानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यर्चिंतं कुरु, तच्छब्दः पूर्वश्लोकापेक्षया हेतौ ॥ ५ ॥
 
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तिं सम्भावयन् आह-
 
ध्यायते तदनुदृश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे
सर्वदाऽस्तु भवतोनुभावतः ॥ ६ ॥