This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदै-
क्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम्
अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्त,
तः, पण्डा सम्यक् तत्त्वदींर्दीशनी प्रज्ञा सञ्जाता यस्य सोऽस्मि, सुभगः
परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणी- योऽस्मि, तरिंकत्किं बहुना
मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दा- त्मना
विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते

दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिता-
Sपि मलिनैव "स्वसोपानपदारूढ्या भर्तुः स्यादन्तिके स्थितिः ।
इतरस्तु विकल्पानां वैमुख्याद्वाबाह्यभूमिग इति", त्वदनुरागिणो यत
एवं मानिताऽपि शोभते ततः ॥ ४ ॥

 
देवदेव भवदव्द्वयामृता-

ख्यातिसंहरारणलब्धजन्मना ।

तद्यथास्थितपदार्थसंविदा
 

मां कुरुष्व चरणार्चनोचितम् ॥ ५ ॥

 
देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्याते:
स्
त्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म या तथा यथास्थि-
तानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यर्चिंतं कुरु,
तच्छन्ब्दः पूर्वश्लोकापेक्षया हेतौ ॥ ५ ॥
 

 
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तिं सम्भा-
वयन् आह-

 
ध्यायते तदनुदृश्यते ततः

स्पृश्यते च परमेश्वरः स्वयम् ।

यत्र पूजनमहोत्सवः स मे

सर्वदाऽस्तु भवतोनुभावतः ॥ ६ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri