This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदै-
क्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम्
अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्त,
पण्डा सम्यक् तत्त्वदींशनी प्रज्ञा सञ्जता यस्य सोऽस्मि, सुभगः
परमानन्दरसोलवणत्वेन सर्वस्य स्पृहणीयोऽस्मि, तरिंक बहुना
मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दात्मना
विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते
दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिता-
Sपि मलिनैव "स्वसोपानपदारूढ्या भर्तुः स्यादन्तिके स्थितिः ।
इतरस्तु विकल्पानां वैमुख्याद्वाह्यभूमिग इति", त्वदनुरागिणो यत
एवं मानिताऽपि शोभते ततः ॥ ४ ॥
देवदेव भवदव्यामृता-
ख्यातिसंहरालब्धजन्मना ।
तद्यथास्थितपदार्थसंविदा
 
मां कुरुष्व चरणार्चनोचितम् ॥ ५ ॥
देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्याते:
स्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म गया तथा यथास्थि-
तानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यचिंतं कुरु,
तच्छन्दः पूर्वश्लोकापेक्षया हेतौ ॥ ५ ॥
 
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्त सम्भा-
वयन् आह-
ध्यायते तदनुहश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे
सर्वदाऽस्तु भवतोनुभावतः ॥ ६ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri