This page has been fully proofread once and needs a second look.

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
 
६३
 
रिति, समावेशे प्राणादिसंस्काररूपाऽस्ति, तामपीति, बही ताव-
ह्वी तावदसौ शक्तिपातात्प्रभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि
तां परिमृज्योत्मों-
र्त्प्रो
छ्य, सर्वत इति, अन्तर्बहिश्च स्वं चिन्म
यं सर्वस्यात्मीयं स्वरूपं निमर्ले प्रकाशय स्फारय ॥ २ ॥

 
एतदेव च मे परमभिलषितमित्याह-

तावके वपुषि विश्वनिर्भरे

चित्सुधारसमये निरत्यये ।

तिष्ठतः सततमर्चतः प्रभुं
 

जीवितं मृतमथान्यदस्तु मे ॥ ३ ॥
 

 
तावक इति । यत्प्रकाशते तत्प्रकाशरूपमेव सत्प्रकाशयि-
तुमर्हति प्रकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूप-
मेव सम्भेदकं नोपपद्यते इत्ययत्नसिद्धम् विश्वरूपत्वं, चिदा-
ह्लादात्मन: स्वरूपे निरत्यये अविनाशिनि तिष्ठन्नेवार्चासमर्थ:
अर्चन्नेव च स्थातुं क्षम इति हेतौ शतारौ तौ च नियमत्यप्रवृत्ततां
 
व्यङ्कःक्तः, स्थितिस्तत्तद्भमिलाभः, अर्चा तदेकपरामर्श- व्यग्रत्वम्,
एवमुत्तरत्र अन्यदित्यनेन चिद्रूपतास्थितिबहुमानेन अवस्थावि
-
यमनादरं ध्वनति ॥ ३ ॥
 
इसाशङ्कय त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिक चमत्का-

 
• ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्ते
इत्याशङ्क्य
त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्का
रयुक्ता एव, इतरथा तु निरभिमानताऽपि न काचिदिति वक्तुमाह-

 
ईश्वरोहमहमेव रूपवान्

पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः ।
 

मत्समोऽस्ति जगतीति शोभते

मानिता त्वदनुरागिणः परम् ॥ ४ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri
 
D