This page has been fully proofread once and needs a second look.

'शिवस्तोत्रावल्याम्
 

 
तत्सत् ।
 

 
संग्रहेगा सुखदुःखलक्षणं
 

मां प्रति स्थितमिदं शृणु प्रभो ।

सौख्यमेव भवता समागमः
 

स्वामिना विरह एव दुःखिता ॥ १ ॥
 

 
संग्रहेणेति । अथ स्तोत्रकाररचितचारुरचनाविशिष्टं संग्रह-
स्तोत्रं व्याकुर्मः । अत्र तु या प्रयोगरूढिरिति संज्ञा पुस्तकेषु दृश्यते
साऽवान्तरैव साक्षात्कारेण चिद्भैरवं समाविश्य व्युत्थानेऽपि व-
लवत्तत्संस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह । हे
प्रभो मां प्रति स्थितं न तु अन्यस्य कस्यापि स्फुरितं, संग्रहेण
संक्षेपेण, सुखदुःखलक्षणं शृणु, प्रभो इसात्यामन्त्रणम्, स्वात्मसमावे-
शक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपाद शब्दान्तर-
.
हस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिना चिन्नाथेन, एष् इति

साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं
मु
सुखं स्वार्थे व्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित
एवशब्दः इहाप्युभयथा योज्यः, प्रभुणा हि यो विरहः प्रभु-
स्वरूपाप्रत्यभिज्ञानं स एव दुःखिता ॥ १ ॥

 
अन्तरप्यतितरामणीयसी
 

या त्वदप्रथनकालिकाऽस्ति मे ।

तामपीश परिमृज्य सर्वतः
 

स्वं स्वरूपममलं प्रकाशय ॥ २ ॥
 

 
अन्तरिति । यत एवं ततः, अपिर्भिन्नक्रमः, अतितरामणीय-
स्थ
स्यपि या मम त्वदप्रथनकालिका भवदख्यातिमलिनता, अन्त-
CC-0 Pulwama Collection. Digitized by eGangotri