This page has not been fully proofread.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 
सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शो-
धितं निर्मलीकृतं भक्तैरिति ॥ १४ ॥
 

 
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः ।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १५॥
 
व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः
यतो मूढैरुदीर्यमाणान्यांचे शिवाद्वयदुषणानि दूषयत्स्वभावचि-
दूपशिवस्वरूपसिद्धि विना न कानिचित् स्युरिति युक्त्या भ
क्तानां साधनान्येव पर्यवस्यन्ति । निकृष्टानां तु भेदमयानां तद-
सिद्धयै शिवाद्वयसाधनाभावाय कानि नावरणानि तीक्ष्णतमयु-
त्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेसमानानि म-
हान्धकारपातयितॄण्येव ॥ १५ ॥
 
कदाचित्क्कापि लभ्योऽसि योगेनेतीश वञ्चना ।
यथासर्वकक्ष्या भासि भक्तिमतां कथम् ॥१६॥
 
कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां,
कापि हृदयचक्रादौ, योगेन चित्तवृत्तिनिरोधेन, ईश स्वामिन्,
असि त्वं लभ्य इसेषा वञ्चना । अन्यथा समाधिव्युत्थानाद्यभि-
मतामु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥
प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम् ।
योगिभ्यो भक्तिभाजां ययुत्थाने ऽपि समाहिताः ॥ १७॥
 
विषयेभ्य इन्द्रियाणां मसाटस नियमनं मसाहार: आदिश-
ब्दाद्धयानधारणादयः तैरसंस्पृष्टः अकदर्थितः तन्निष्ठेभ्यो यो-
गिभ्यो महानसामान्यः विशेषः अतिशयो भक्तिभाजामस्ति य
 
CC-0 Pulwama Collection. Digitized by eGangotri