This page has been fully proofread once and needs a second look.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम्भावाभावतया सन्तु भवद्भावेन मे भव
भावाभावतया सन्तु भवद्भावेन मे भव ।

तथा न किंचिप्यस्तु न किंचिद्भवतोऽन्यथा ॥ २८ ॥
भावाभाव

 
भावाभावे
ति । ये भावा इत्यभिधीयन्ते ते मम त्वन्मयत्वेन
भावा विद्यमाना भवन्तु, यत्र किंचिदुच्यते तत् त्वन्मयतां
त्रि
विना न किंचिदस्तु ॥ २८ ॥

 
यन्न किंचिदपि तन्न किंचिद-

प्यस्तु किंचिदपि किंचिदेव मे ।

सर्वथा भवतु तावता भवान्
 

सर्वतो भवति लब्धपूजितः ॥ २९ ॥
 

 
यन्नेति । लोकेन न किंचिदपीति यत् न किञ्चिदेवानु-
पादेयतया कथ्यते तत् मम न किंचित् अपि तु सर्वभेदमयं
न किंचिद्भवतु, यत्तूपादेयतयाऽभिमतं किञ्चिदिति भण्यते
तन्मम किञ्चिदेव किञ्चिदित्यसामान्यं स्वानुभवैक- साक्षिकं वस्तु
सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिच्चिद्नं रूपं यत् तदप्रत्यभिज्ञा-
नात् न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किंचित् तन्मा-

याव्यामोहात्किञ्चित्वेन स्फुरति, मम तु न किञ्चित् किंचिञ्च
न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदित्यर्थः, एतावता भवान्
चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ॥ २९ ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक -

द्वादशस्तोत्रे श्रीक्षेमराजकृता विवृतिः
 
CC-0 Pulwama Collection. Digitized by eGangotri