This page has not been fully proofread.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
भावाभावतया सन्तु भवद्भावेन मे भव ।
तथा न किंचिप्यस्तु न किंचिद्भवतोऽन्यथा ॥ २८ ॥
भावाभावति । ये भावा इसभिधीयन्ते ते मम त्वन्मयत्वेन
भावा विद्यमाना भवन्तु, यत्र किंचिदुच्यते तत् त्वन्मयतां
त्रिना न किंचिदस्तु ॥ २८ ॥
यन्न किंचिदपि तन्न किंचिद-
प्यस्तु किंचिदपि किंचिदेव मे ।
सर्वथा भवतु तावता भवान्
 
सर्वतो भवति लब्धपूजितः ॥ २९ ॥
 
यन्नेति । लोकेन न किंचिदपीति यत् न किञ्चिदेवानु-
पादेयतया कथ्यते तत् मम न किंचित् अपि तु सर्वभेदमयं
न किंचिद्भवतु, यत्तूपादेयतयाऽभिमत किञ्चिदिति भण्यते
तन्मम किञ्चिदेव किञ्चिदिस सामान्य स्वानुभवैकसाक्षिकं वस्तु
सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिच्चिद्धनं रूपं यत् तदमयभिज्ञा-
नाव न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किंचिव तन्मा-
याव्यामोहात्किञ्चित्वेन स्फुरति, मम तु न किञ्चित् किंचिञ्च
न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदियर्थः, एतावता भवान्
चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ॥ २९ ॥
 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक -
द्वादशस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri