This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्या
 
नसि स्वरसेन यत्र तत्र
 

प्रचरत्यन्वहमस्य गोचरेषु ।

प्रसृतोप्यविलोल एव युष्म-

त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
 

 
मनसीति । यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे
प्रवृत्तोऽपि, अविलोलः अलम्पटः, युष्मत्परिचर्या त्वदर्चा तत्र
चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः ॥ २५ ॥

 
भगवन्भवदिच्छ्यैव दास-

स्तव जातोऽस्मि परस्य नात्र शक्तिः ।

कथमेष तथापि वक्रबिम्बं
 

तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥

 
भगवन्निति । भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य
 
स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्कवि-
रबिम्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहा-
दिप्रमातृरूपः, जातु कदाचित,त् व्युत्थाने न पश्यामि नासादया-
मि ॥ २६ ॥
 

 
समुत्सुकास्त्वां प्रति ये भवन्तं

प्रत्यर्थरूपादवलोकयन्ति ।

तेषामहो किं तदुपस्थितं स्यात्
 

किं साधनं वा फलितं भवेत् तत् ॥ २७ ॥

 
समुत्युसुका इति । सम्यगुत्सुकाः भक्तिभरणोत्कण्ठिता,
प्रस
प्रत्यर्थरूपादिति विषयं विषयमासाद्य, किं तदिति, तेनैवानुभाव्यं
न वक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम् ॥ २७ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri