This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
मनसि स्वरसेन यत्र तत्र
 
प्रचरत्यन्वहमस्य गोचरेषु ।
प्रसृतोप्यविलोल एव युष्म-
त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
 
मनसीति । यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे
भवृत्तोऽपि, अविलोलः अलम्पटः, युष्मत्परिचर्या त्वदर्चा तत्र
चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः ॥ २५ ॥
भगवन्भवदिच्छ्यैव दास-
स्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेष तथापि वक्रबिम्बं
 
तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥
भगवन्निति । भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य
 
स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्कवि-
म्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहा-
दिममातृरूपः, जातु कदाचित, व्युत्थाने न पश्यामि नासादया-
मि ॥ २६ ॥
 
समुत्सुकास्त्वां प्रति ये भवन्तं
प्रत्यर्थरूपादवलोकयन्ति ।
तेषामहो किं तदुपस्थितं स्यात्
 
किं साधनं वा फलितं भवेत् तत् ॥ २७ ॥
समुत्युका इति । सम्यगुत्सुकाः भक्तिभरणोत्कण्ठिता,
प्रसर्थरूपादिति विषयं विषयमासाद्य, किं तदिति, तेनैवानुभाव्यं
न वक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम् ॥ २७ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri