This page has not been fully proofread.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन
स्थितोऽनिशमबाधितत्वदम लागिपूजोत्सवः ॥ २२ ॥
नेति । सर्वेषां ज्ञानानां प्रथमेन पादेन परमार्थतः शिवभ-
क्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा
तथेति गतसङ्कोचम्, अबाधितो न केनचिदप्यपसारितस्तन्मरी-
व्यर्चनप्रमोदो यस्य ॥ २२ ॥
भवदीयगंभीरभाषिते
 
प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
तदनुष्ठित शक्तिरप्यतस्त-
स्वदचाव्यसनं च निर्विरामम् ॥ २३ ॥
 
भवदीयेति । गभीरभाषितेष्विति । मुख्ये भेदार्थत्वेन भा-
समानेष्वपि गर्भीकृतरहस्यार्थेषु वाक्येषु तावकेषु, मम पुरः पूर्व,
प्रतिभा नवनवोल्लेखिनी प्रज्ञा, सम्यगविपर्यस्तत्वेनोदेतु, अतोप्य-
नन्तरं, तदिति अलौकिकं, निर्विरामं कृत्वा भवदर्चायां व्य
सनमुदेतु ॥ २३ ॥
व्यवहारपदेऽपि सर्वदा
 
प्रतिभात्वर्थकलाप एष माम् ।
 
भवतोवयवो यथा न तु
 
स्वत एवादरणीयतां गतः ॥ २४ ॥
व्यवहारेति । एषः अर्थकलापः व्यवहारेऽपि भगवतश्चि-
म्मयस्य, यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु
मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव सुखा-
दिहेतुत्वेनादरणीयतां गतः ॥ २४ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri